Friday, May 1, 2009

संक्षेप रामायणम् - २९

श्लोकः 
श्रृड्गिवेरपुरे सूतं गड्गाकूले व्यसर्जयत् । 
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।। 

सन्धिः 
श्रृड्गिवेरपुरे + सूतम् = श्रृड्गिवेरपुरे सूतम्
सूतम् + गड्गाकूले = सूतं गड्गाकूले । व्यञ्जन सन्धिः - मोऽनुस्वारः 
गड्गाकूले + व्यसर्जयत् = गड्गाकूले व्यसर्जयत्
गुहम् + अासाद्य = गुहमासाद्य 
अासाद्य + धर्मात्मा = अासाद्य धर्मात्मा 
धर्मात्मा + निषादाधिपतिम् = धर्मात्मा निषादाधिपतिम्
निषादादिपतिम् + प्रियम् = निषादादिपतिं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
श्रृड्गिवेरपुरे =  Shringivera puram
सूतम् = charioteer
गड्गाकूले = near the banks of Ganga
व्यसर्जयत् = leave
गुहम् = Guha
अासाद्य = obtainable
धर्मात्मा = noble hearted
निषादाधिपतिं = chief of the hunters/tribals
प्रियम् = beloved

Summary: 
The charioteer (in Shringiverapuram) leaves them at the bank of Ganga where the beloved Guha, the noble hearted chief of the hunters ...  

संक्षेप रामायणम् - २८

श्लोकः
सीताप्यनुगता रामं शशिनं रोहिणी यथा । 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।। 

सन्धिः 
सीता + अपि = सीता अपि । 
अपि + अनुगता = अप्यनुगता । स्वर सन्धिः - इको यणचि
अनुगता + रामम् = अनुगता रामम्
रामम् + शशिनम् = रामं शशिनम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
शशिनम् + रोहिणी = शशिनं रोहिणी । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रोहिणी + यथा = रोहिणी यथा 
पौरैः + अनुगतः = पौरैरनुगतः । विसर्ग सन्धिः - रेफः - रो रि
अनुगतः + दूरम् = अनुगतो दूरम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
दूरम् + पित्रा = दूरं पित्रा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
पित्रा + दशरथेन = पित्रा दशरथेन 
दशरथेन + च = दशरथेन च 

Meaning: 
सीता = Sita
अपि = also
अनुगता = followed
रामम् = Rama
शशिनम् = moon
रोहिणी = ? 
यथा = as
पौरैः = With the citizens
अनुगतः = follow
दूरम् = distance
पित्रा = father
दशरथेन = with Dasharatha
च = and

Summary: 
Sita also followed Rama just as moon ...  with the citizens and King Dasharatha following them for a distance

संक्षेप रामायणम् - २७

श्लोकः 
जनकस्य कुले जाता देवमायेव निर्मिता । 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।। 

सन्धिः 
जनकस्य + कुले = जनकस्य कुले
कुले + जाता = कुले जाता
जाता + देवमाया = जाता देवमाया 
देवमाया + इव = देवमायेव । स्वर सन्धिः - अाद् गुणः
इव + निर्मिता = इव निर्मिता 
सर्वलक्षणसम्पन्ना + नारीणाम् = सर्वलक्षणसम्पन्ना नारीणाम् 
नारीणाम् + उत्तमा = नारीणामुत्तमा
उत्तमा + वधूः = उत्तमा वधूः 

Meaning:
जनकस्य = Janaka's
कुले = lineage
जाता = born
देवमाया = Divine magic 
इव = like
निर्मिता = built
सर्वलक्षणसम्पन्ना = enriched with all the auspicious signs
नारीणाम् = Women's
उत्तमा = excellent
वधूः = young wife/bride

Summary: 
Born in the Janaka dynasty, built like divine maya, enriched with all the auspicious signs of a woman, She (Sita) is a bride par-excellence.  

संक्षेप रामायणम् - २६

श्लोकः
भ्रातरं दयितो भ्रातुः सोभ्रात्रमनुदर्शयन् । 
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। २६ ।। 

सन्धिः 
भ्रातरम् + दयितः = भ्रातरं दयितः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दियतः + भ्रातुः = दयितो भ्रातुः ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रातुः सः = भ्रातुः सः ।
सः + भ्रात्रम् = सोभ्रात्रम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रात्रम् + अनुदर्शयन् = भ्रात्रमनुदर्शयन् ।
रामस्य + दयिता = रामस्य दयिता 
दयिता + भार्या = दयिता भार्या 
भार्या + नित्यम् = भार्या नित्यम् 
नित्यम् + प्राणसमा = नित्यं प्राणसमा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्राणसमा + हिता = प्राणसमा हिता 

Meaning: 
भ्रातरम् = Brother (द्वितीया)
दयितः = beloved
भ्रातुः = brother
सः = he
भ्रात्रम् = brotherhood (द्वितीया)
अनुदर्शयन् = show
रामस्य  = Rama's
दयिता = beloved (स्री)
भार्या = wife
नित्यम् = constantly/regularly/always
प्राणसमा = equal to life
हिता = well wisher

Summary: 
He (Lakshmana) showed what brotherhood is all about. Rama's beloved wife Sita, a constant well wisher, ... 

Thursday, April 30, 2009

संक्षेप रामायणम् - २५

श्लोकः 
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । 
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ।। २५ ।।

सन्धिः 
तम् + व्रजन्तम् = तं व्रजन्तम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
व्रजन्तम् + प्रियः = व्रजन्तं प्रियः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियः + भ्राता = प्रियो भ्राता ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः 
भ्राता + लक्ष्मणः = भ्राता लक्ष्मणः 
लक्ष्मणः + अनुजगाम = लक्ष्मणोऽनुजगाम ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः, स्वर सन्धिः - एड् पदान्तादति
अनुजगाम + ह = अनुजगाम ह ।
स्नेहात् + विनयसम्पन्नः = स्नेहाद्विनयसम्पन्नः ।  व्यञ्जन सन्धिः - झलां जशोऽन्ते
विनयसम्पन्नः + सुमित्रानन्दवर्धनः = विनयसम्पन्नः सुमित्रानन्दवर्धनः

Meaning: 
तम् = him
व्रजन्तम् = at the end of his walk
प्रियः = loving
भ्राता = brother
लक्ष्मणः = Lakshmana
अनुजगाम = followed
ह = for the meter? 
स्नेहात् = for affection
विनयसम्पन्नः = rich in humility
सुमित्रानन्दवर्धनः = Sumitra's son ?

Summary: 
Affectionate brother Lakshmana/Sumitra's son follows Rama with humility



संक्षेप रामायणम् - २४

श्लोकः 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । 
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। २४ ।।

सन्धिः 
सः + जगाम = स जगाम ।  विसर्ग सन्धिः -  लोपः शाकल्यस्य
जगाम + वनम् = जगाम वनम्
वनम् + वीरः = वनं वीरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
वीरः + प्रतिज्ञाम् = वीरः प्रतिज्ञाम् ।
प्रतिज्ञाम + अनुपालयन् = प्रतिज्ञामनुपालयन्  ।
पितुः + वचन = पितुर्वचन । विसर्ग सन्धिः - रेफः - रो रि
वचन + निर्देशात् = वचन निर्देशात् 
निर्देशात् + कैकेय्याः = निर्देशात् कैकेय्याः 
कैकेय्याः + प्रियकारणात् = कैकेय्याः + प्रियकारणात् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो पौ

Meaning: 
सः =  He
जगाम = go 
वनम् = forest
वीरः = brave 
प्रतिज्ञाम् = promise/pledge
अनुपालयन् = take care of
पितुः = Father
वचन = words
निर्देशात् =  direction
कैकेय्याः =  Of Kaikeyi's
प्रियकारणात् = for the sake of ? 

Summary:
To take care of Dasharatha's promise, Rama was asked to go the forest, by the Father's orders (words) and for the sake of Kaikeyi's reason. 


संक्षेप रामायणम् - २३

श्लोकः 
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। २३ ।। 

सन्धिः 
सः + सत्यवचनात् = स सत्यवचनात् । विसर्ग सन्धिः -  लोपः शाकल्यस्य
वचनात् + राजा = वचनाद्राजा । व्यञ्जन सन्धिः - झलां जशोऽन्ते
राजा + धर्मपाशेन = राजा धर्मपाशेन 
धर्मपाशेन + संयतः = धर्मपाशेन संयतः 
विवासयामास + सुतम् = विवासयामास सुतम् 
सुतम् + रामम् = सुतं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रामम् + दशरथः = रामं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + प्रियम् = दशरथः प्रियम्

Meaning: 
सः = He
सत्यवचनात् = for his word
राजा = King
धर्मपाशेन = by the rope of Dharma
संयतः = held together
विवासयामास = send forth for
सुतम् = son
रामम् = Rama  
दशरथः = Dasharatha
प्रियम् = loved one

Summary: 
Held by the rope of Dharma, Dasharatha sent forth for his loving son, Rama. 

संक्षेप रामायणम् - २२

श्लोकः
पूर्वं दत्तवरा देवी वरमेनमयाचत । 
विवासनं च रामस्य भरतस्यभिषेचनम् ।। २२ ।। 

सन्धिः 
पूर्वम् + दत्तवरा = पूर्वं दत्तवरा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दत्तवरा + देवी = दत्तवरा देवी
देवी + वरमेन = देवी वरमेन 
वरमेन + मया = वरमेन मया 
मया + चत = मया चत
विवासनम् + च = विवासनं च । व्यञ्जन सन्धिः - मोऽनुस्वारः 
च + रामस्य = च रामस्य 
रामस्य + भरतस्यभिषेचनम् = रामस्य भरतस्यभिषेचनम्

Meaning: 
पूर्वम् = previously
दत्तवरा = given boon
देवी = queen
वरमेन = by a boon? 
मया = by me
चत = and ....
विवासनम् = banishing/expulsion
च = and
रामस्य = Rama's
भरतस्यभिषेचनम् = Bharatha's coronation

Summary: 
The queen wanted Rama's explusion and Bharatha's (her son's) coronation based on a 
previous boon/wish given by the King. 

Tuesday, March 24, 2009

संक्षेप रामायणम् - २१

श्लोकः
यौवराज्येन संयोक्तुमैच्छत् प्रित्या महीपतिः । 
तस्यभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी ।। २१ ।।

सन्धिः 
यौवराज्येन + संयोक्तुम् = यौवराज्येन संयोक्तुम्
संयोक्तुम् + एच्छत्  = संयोक्तुमैच्छत् । स्वर सन्धिः - वृद्धिरादैच्
एच्छत् + प्रित्या = एच्छत् प्रित्या
प्रित्या + महीपतिः = प्रित्या महीपतिः
तस्यभिषेक + सम्भारान् = तस्यभिषेकसम्भारान्
सम्भारान् + दृष्ट्वा = सम्भारान् दृष्ट्वा
दृष्ट्वा + भार्याऽथ = दृष्ट्वा भार्याऽथ
भार्याऽथ + कैकयी = भार्याऽथ कैकयी

Meaning: 
यौवराज्येन = of the rights of the heir apparent
संयोक्तुम् = geared
एच्छत् = he wished
प्रित्या = on friendly terms
महीपतिः = king
तस्यभिषेक = his coronation
संभारान् = preparations
दृष्ट्वा = after seeing
भार्याऽथ = hen-pecked 
कैकयी = Kaikeyi

Summary: 
King Dashratha wished that Rama will be coronated, as he is the heir apparent, in a straight forward fashion. After seeing the preparations for Rama's coronation, Kaikeyi ...

Monday, March 23, 2009

संक्षेप रामायणम् - २०

श्लोकः
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । 
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। २० ।।

सन्धिः 
ज्येष्ठम् + ज्येष्ठगुणैः = ज्येष्ठं ज्येष्ठगुणैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
ज्येष्ठगुणैः + युक्तम् = ज्येष्ठगुणैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रियम् = युक्तं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियम् + दशरथः = प्रियं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + सुतम् = दशरथः सुतम् 
प्रकृतीनाम् + हितैः = प्रकृतीनां हितैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
हितैः + युक्तम् = हितैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रकृतिप्रियकाम्यया = युक्तं प्रकृतिप्रियकाम्यया । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
ज्येष्ठम् = the most excellent, first or head
ज्येष्ठगुणैः = of excellent qualities
प्रियम् = love
दशरथः = King Dashratha
सुतम् = son
प्रकृतीनाम् = Nature's
हितैः = goodness (तृतीया)
युक्तम् = a pair
प्रकृति = naturally
प्रियकाम्यया = loveable

Summary: 
Sri Rama is King Dashratha's loving and eldest son, with all the excellent qualities. By nature, he is affectionate. 



Monday, March 9, 2009

संक्षेप रामायणम् - १९

श्लोकः 
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।। १९ ।।

सन्धिः 
धनदेन + समः = धनदेन समः
समः + त्यागे = समस्त्यागे । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः
त्यागे + सत्ये = त्यागे सत्ये
सत्ये + धर्म = सत्ये धर्म
धर्म + इव = धर्म इव
इव + अपरः = इवापरः । स्वर सन्धिः - अकः सवर्णे दीर्घः
तमेवम् + गुणसम्पन्नम् = तमेवम् गुणसम्पन्नम् 
गुणसम्पन्नम् + रामम् = गुणसम्पन्नं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रामम् + सत्यपराक्रमम् = रामं पराक्रमम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
धनदेन = an epithet of Kubera
समः = equal to
त्यागे = in sacrifice
सत्ये = in truth
धर्म = Dharma (I don't think any english word can do justice to this word)
इव = emphasis particle
अपरः = no one else
तमेवम् = quite all these
गुणसम्पन्नम् =  rich in qualities
रामम् = Rama (द्वितीया)
सत्यपराक्रमम् = true prowess/heroic/courageous, ... 

Summary: 
Equivalent with Kubera in sacrifice and in truth and Dharma, none is equal to Rama, who is rich in all these qualities and is truly courageous. 

संक्षेप रामायणम् - १८

श्लोकः 
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। १८ ।।

सन्धिः 
विष्णुना + सदृशः = विष्णुना सदृशः
सदृशः + वीर्ये = सदृशो वीर्ये । विसर्ग सन्धिः - उकारः, स्वर सन्धिः - अाद् गुणः 
वीर्ये + सोमवत् = वीर्ये सोमवत् 
सोमवत् + प्रियदर्शनः = सोमवत् + प्रियदर्शनः 
कालाग्निसदृशः + क्रोधे = कालाग्निसदृश क्रोधे 
क्रोधे + क्षमया = क्रोधे क्षमया
क्षमया + पृथिवीसमः = क्षमया पृथिवीसमः 

Meaning: 
विष्णुना = Lord Vishnu (तृतीया)
सदृशः = looks like
वीर्ये = in valour
सोमवत् = plant like
प्रियदर्शनः = loved by all
कालाग्निसदृशः = like the Fire
क्रोधे = in anger
क्षमया = forgiveness (तृतीया)
पृथिवीसमः = like Earth

Summary: 
In valor, looks like Lord Vishnu, loved by all like the plants, in anger equivalent to the Fire and in forgiveness is like Mother Earth. 

संक्षेप रामायणम् - १७

श्लोकः
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः । 
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।। १७ ।।

सन्धिः 
स + च = स च
च + सर्वगुणोपेतः = च सर्वगुणोपेतः 
सर्वगुणोपेतः + कौसल्यानन्दवर्धनः = सर्वगुणोपेतः कौसल्यानन्दवर्धनः 
समुद्र + इव = समुद्र इव 
इव + गाम्भीर्ये = इव गाम्भीर्ये
गाम्भीर्ये + धैर्येण = गाम्भीर्ये धैर्येण
धैर्येण + हिमवानिव = धैर्येण हिमवानिव

Meaning: 
स = 
च = and
सर्वगुणोपेतः = endowed with good qualities
कौसल्यानन्दवर्धनः = growing as Kousalya's son
समुद्र = ocean 
इव = like
गाम्भीर्ये = depth/profundity/dignity
धैर्येण = with courage
हिमवान् इव = like the Himalayas

Summary:
Endowed with good qualities, he is growing as Kousalya's son, dignified like the ocean and courageous like the Himalayas.  
 

संक्षेप रामायणम् - १६

श्लोकः
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
अार्यः सर्वसमश्चैव सदैव प्रियदर्शनः ।। १६ ।।

सन्धिः
सर्वदाभिगतः + सद्भिः = सर्वदाभिगतः सद्भिः 
सद्भिः + समुद्र = सद्भिः समुद्र
समुद्र + इव = समुद्र इव 
इव + सिन्धुभिः = इव सिन्धुभिः 
अार्यः + सर्वसमः = अार्यः सर्वसमः
सर्वसमः + च = सर्वसमश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + सदा = एव सदा 
सदा + एव = सदैव । स्वर सन्धिः - वृद्धिरेचि
एव + प्रियदर्शनः = एव प्रियदर्शनः

Meaning: 
सर्वदाभिगतः = always following/approaching
सद्भिः = 
समुद्र = rising
इव = like
सिन्धुभिः = with/by the ocean (तृतीया)
अार्यः = respected man
सर्वसमः = always balanced
च = and
एव = quite/exactly (a particle for emphasis)
सदा = always
एव = quite/exactly
प्रियदर्शनः = who is dear to all

Summary: 
Whom everybody follows, who rises like the ocean, a respected man, always balanced and who is dear to all. 

Monday, March 2, 2009

संक्षेप रामायणम् - १५

श्लोकः
सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् । 
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। १५ ।।

सन्धिः 
सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान् = सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान्
स्मृतिमान् + प्रतिभानवान् = स्मृतिमान् + प्रतिभानवान्
सर्वलोकप्रियः + साधुः = सर्वलोकप्रियः साधुः
साधुः + अदीनात्मा = साधुरदीनात्मा । विसर्ग सन्धिः - रेफः - ससजुषोरुः
अदीनात्मा + विचक्षणः = अदीनात्मा विचक्षणः 

Meaning: 
सर्वशास्त्रार्थतत्वज्ञः = knowledgeable in the philosophies of all Shastras
स्मृतिमान् = prudent/discreet/versed in law
प्रतिभानवान् = splendid/bright/ready-witted/bold
सर्वलोकप्रियः = the favorite of the entire world
साधुः = saint/good person
अदीनात्मा = not depressed, high spirited people
विचक्षणः = clear sight

Summary: 
Rama is described as well versed in the Shastras, as a bright and ready-witted person, the favorite of the entire world, a saint/good person, high spirited and with a clear sight. 

 

संक्षेप रामायणम् - १४

श्लोकः
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्वज्ञो धनुर्वेदे च निष्ठितः ।। १४ ।।

सन्धिः 
रक्षिता + स्वस्य = रक्षिता स्वस्य
स्वस्य + धर्मस्य = स्वस्य धर्मस्य
धर्मस्य + स्वजनस्य = धर्मस्य स्वजनस्य
स्वजनस्य + च = स्वजनस्य च 
च + रक्षिता = च रक्षिता
वेदवेदाङ्गतत्वज्ञः + धनुः = वेदवेदाङ्गतत्वज्ञो धनुः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
धनुः + वेदे = धनुर्वेदे । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वेदे + च = वेदे च
च + निष्ठितः = च निष्ठितः

Meaning: 
रक्षिता = savior
स्वस्य = self's 
धर्मस्य = dharma's
स्वजनस्य = one's own people's 
च = and
रक्षिता = protector
वेदवेदाङ्गतत्वज्ञः = knower of vedas part by part (literally)
धनुः = bow
वेदे = in veda/field
च = and
निष्ठितः = well versed in 

Summary: 
Rama is the savior of his/his kinsmen's dharma and is well versed in the Vedas and specifically in archery. 

संक्षेप रामायणम् - १३

श्लोकः
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । 
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। १३ ।। 

सन्धिः 
प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
श्रीमान् + धाता = श्रीमान् धाता
धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य 
जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता

Meaning: 
प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
श्रीमान् = prosperous/rich person
धाता = supporter of the creation [giver]
रिपुनिषूदनः =  slayer of enemies
रक्षिता = protector/guardian/saviour
जीवलोकस्य = world's living creatures
धर्मस्य = justice's
परिरक्षिता = protector/guardian/saviour

Summary: 
Rama here is compare to Lord Brahma and is considered to be a generous, rich person who slays enemies. He is considered the saviour of justice and the living beings on earth. 

Sunday, March 1, 2009

संक्षेप रामायणम् - १२

श्लोकः
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । 
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। १२ ।।

सन्धिः 
धर्मज्ञः + सत्यसन्धः = धर्मज्ञः सत्यसन्धः 
सत्यसन्धः + च = सत्यसन्धश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः , व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + प्रजानाम् = च प्रजानाम् 
प्रजानाम् + च = प्रजानां च । व्यञ्जन सन्धिः - अनुस्वारः - मोऽनुस्वारः 
च + हिते = च हिते
हिते + रतः = हिते रतः 
यशस्वी + ज्ञानसम्पन्नः = यशस्वी ज्ञानसम्पन्नः 
ज्ञानसम्पन्नः + शुचिः = ज्ञानसम्पन्नः शुचिः 
शुचिः + वश्यः = शुचिर्वश्यः । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वश्यः + समाधिमान् = वश्यः समाधिमान् 

Meaning: 
धर्मज्ञः = knower of dharma
सत्यसन्धः = an epithet of Rama
प्रजानाम् = people's
च = and
हिते = goodness
रतः = engaged in
यशस्वी = honorable, famed
ज्ञानसम्पन्नः = rich in knowledge
शुचिः = pure in his dealing [virtuous, pious, clean]
वश्यः = self controlled [a dependant/servant]
समाधिमान् = having concentrated mind [profound or abstract meditation]

Summary: 
Rama is a knower of dharma/justice, a follower of truth and always engaged in the good for the people. He is honorable/famous, rich in knowledge, self controlled and having a concentrated mind. 

संक्षेप रामायणम् - ११

श्लोकः
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । 
पीनवक्षा विशालाक्षो लक्षीवाञ्छुभलक्षणः ।। ११ ।।

सन्धिः
समः + समविभक्ताङ्गः = समः समविभक्ताङ्गः 
समविभक्ताङ्गः + स्निग्धवर्णः = समविभक्ताङ्गः स्निग्धवर्णः
स्निग्धवर्णः + प्रतापवान् = स्निग्धवर्णः प्रतापवान् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो प
पीनवक्षा + विशालाक्षो = पीनवक्षा विशालाक्षो
विशालाक्षो + लक्षीवान् = वीशालाक्षो लक्षीवान् 
लक्षीवान् + शुभलक्षणः = लक्षीवाञ्छुभलक्षणः । व्यञ्जन सन्धिः - छत्वः - शश्छोऽटि

Meaning: 
समः = possessed of medium stature [equal]
समवीभक्ताङ्गः = equally divided parts/organs
स्निग्धवर्णः = glistening color
प्रतापवान् = courageous, heroic
पीनवक्षा = full chested, having a full bosom
विशालाक्षो = big eyes
लक्षीवान् = bearer of good marks/signs
शुभलक्षणः = auspicious signs

Summary: 
Rama's description continues: Equally divided parts of the body, glistening color, courageous, fully chested, big eyes and bearer of auspicious signs. 

Wednesday, February 25, 2009

संक्षेप रामायणम् - १०

श्लोकः
महोरस्को महेष्वासः गूढजत्रुररिन्दमः ।
अाजानुबाहुः सुशिराः सुललाटस्सुविक्रमः ।। १० ।।

सन्धिः 
महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः 
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः 
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः - विसर्जस्य सः

Meaning:
महोरस्कः = having broad chest [----]
महेष्वासः = holding mighty bow [great archer/warrior]
गूढजत्रु = whose collar covered with flesh [secret bone]
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head? 
सुललाटः = having shapely forehead [-----]
सुविक्रमः = very valiant/bold/chivalrous -- possessed of charming gait

Summary:
The description of the qualities continues: great archer, conqueror of enemies, long arms, good head, very valiant, ... 

संक्षेप रामायणम् - ९

श्लोकः
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः । 
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। ९ ।।

सन्धिः 
बुद्धिमान् + नीतिमान् = बुद्धिमान् नीतिमान्
नीतिमान् + वाग्मी = नीतिमान् वाग्मी
वाग्मी + श्रीमान् = वाग्मी श्रीमान्
श्रीमान् + शत्रुनिबर्हणः = श्रीमाञ्छत्रुनिबर्हणः । व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
विपुलांसः + महाबाहुः = विपुलांसो महाबाहुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः
महाबाहुः + कम्बुग्रीवः = महाबाहुः कम्बुग्रीवः । विसर्ग सन्धिः - जिह्वामूलीय: - कुप्वो क
कम्बुग्रीवः + महाहनुः = कम्बुग्रीवो महाहनुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः

Meaningः 
बुद्धिमान् = intelligent, one who has wisdom
नीतिमान्  = sagacious, one who is just
वाग्मी = one who is eloquent
श्रीमान् = glorious [one who is wealthy]
शत्रुनिबर्हणः = destroyer of enemy
विपुलांसः = with large shoulders
महाबाहुः = long forearms
कम्बुग्रीवः = conch-shaped neck
महाहनुः = having stout chin   [big jaws]

Summary:
Rama's qualities are described here: wise, just, eloquent, wealthy, destructor of enemies, one with large shoulders, forearms and jaws, and has a conch-shaped neck. 

Monday, February 23, 2009

संक्षेप रामायणम् - ८

श्लोकः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । 
नियतात्मा महाविर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।

सन्धिः 
इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
नाम + जनैः = नाम जनैः 
जनैः + श्रुतः = जनैः श्रुतः 
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः 
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी

Meaning: 
इक्ष्वाकुवंशप्रभवः =  Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महावीर्यः = very powerful     [महाविर्यः = great warrior]
द्युतिमान् = possessed of splendour
धृतिमान् = determined person
वशी = one who has conquered over sense organs [under control]

Summary: 
It was heard by the people that Rama named Ikshvanku dynasty lord had the following qualities: self control, very powerful, possessed of splendour and determination. 

Monday, February 16, 2009

संक्षेप रामायणम् - ७

श्लोकः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्द्वा तैर्युक्तः श्रुयतां नरः ।।७।।

सन्धिः
बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये 
ये + त्वया = ये त्वया 
त्वया + कीर्तिता = त्वया कीर्तिता
कीर्तिता + गुणाः = कीर्तिता गुणाः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्‌वा = अहं बुध्द्‌वा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
बुध्द््वा + तैः = बुध्द्‌वा तैः 
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम् 
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning:
बहवः = many 
दुर्लभाः = difficult to be attained 
च = and 
एव = thus
ये  = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i 
बुध्द्‌वा  = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear [listen]
नरः  = man

Summary: 
Narada says, Oh sage, Listen, I will tell you about the man with the qualities that you described/praised ...

संक्षेप रामायणम् - ६

श्लोकः
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मिकेर्नारदोवचः । 
श्रुयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।६।।

सन्धिः
श्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
वाल्मिकेः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः [वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः, स्वर सन्धिः - अाद् गुणः]
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
श्रुयतामिति + च = श्रुयतामिति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतोदप्‌लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
श्रुत्वा  = after hearing [listen]
च  = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः  = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke

Summary: 
The knower of the three worlds, Sage Narada, was pleased and invited Sage Valmiki to listen the answers for his question. 

Sunday, February 15, 2009

संक्षेप रामायणम् - ५

Sloka: 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। 
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।५।।

सन्धिः
एतत् + इच्छामि = एतदिच्छामि । व्यञ्जन सन्धिः - झलां जशोन्ते
इच्छामि + अहम् = इच्छाम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + श्रोतुम् = अहं श्रोतुम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
श्रोतुम् + परम् = श्रोतुं परम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
परम् + कौतूहलम् = परं कौतूहलम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
कौतूहलम् + हि = कौतूहलं हि । व्यञ्जन सन्धिः - मोऽनुस्वारः
हि + मे = हि मे
महर्षे + त्वम् = महर्षे त्वम्  
त्वम् + समर्थः = त्वं समर्थः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
समर्थः + असि = समर्थोऽसि । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
असि + ज्ञातुम् = असि ज्ञातुम्
ज्ञातुम् + एवम् = ज्ञातुमेवम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
एवम् + विधम् = एवंविधम् । व्यञ्जन सन्धिः - मोऽनुस्वारः  
विधम् + नरम् = विधं नरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
एतत्  = this
इच्छामि = desire/wish
अहम् = I
श्रोतुम् = hearing (shanich prayogam)
परम् = very
कौतूहलम् = curiosity [joyful/happy]
हि = because
मे = to me [vibhakti 6]
महर्षे = Oh sage (vibhakti 8)
त्वम् = you
समर्थः = expert/knowledgeable
असि = are
ज्ञातुम् = knowing
एवम् = thus in this manner
विधम् = quality
नरम्  = man

Summary: 
Sage Valmiki says: This is what I desire because it gives extreme joy on hearing the answer for my questions. Oh Maharishi, you are knowledgeable/an expert and thus know a man 
with such qualities?