Tuesday, January 26, 2010

समासः

श्री श्री महाबलेश्वरमहोदयस्य समास पाठ तः मम notes अधः भवति।

इदानीं समासविषये किञ्चित् पठन् अस्मि। समासः चतुर्विदाः सन्ति।
  • १) तत्पुरुषः
  • २) द्वन्द्वः
  • ३) बहुव्रीहिः
  • ४) अव्ययीभावः
तत्पुरुषसमासः पुनः चतुर्विदाः सन्ति। ते सन्ति --
  • १) सामान्यः
  • २) कर्मधारयः
  • ३) द्विगुः
  • ४) नञ्चप्रभृतयः

सामान्यः तत्पुरुषः सप्त विदाः सन्ति। प्रथम तः, सप्तमि पर्यन्तं सन्ति।

१) द्वितीया तत्पुरुषः
  • अ) द्वितीया श्रितातीतपतितगतात्यस्यतप्राप्तापन्नैः। द्वितीयाविभक्त्यन्तं पदं, उपर लिखित शब्दैः सह समस्यते इति। उदाहरणानि सन्ति कृष्णश्रितः, दुःखातीतः, ...
  • अा) गम्यादीनाम् उपसंख्यानाम्। गमी, गामी, अादयः अत्र द्वितीयाविभक्त्यन्तपदेन सह समस्येते। उदाहरणानि सन्ति नगरगामी, ग्रामगमी, ...
२) तृतीया तत्पुरुषः
  • अ) पूर्वसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । तृतीयाविभक्त्यन्तपदं उपरि लिखित पदैः सह समस्यते। उदाहरणानि सन्ति मासपूर्वः, वाककलहः, अाचारश्लक्ष्णः, ...
  • अा) कर्तृकरणे कृता बहुलं। ये ये करण शब्दाः तृतीयाविभक्त्यन्त पदैः, फलेन समस्यन्ते। उ -- नखभिन्नः, हरित्रातः, ...
  • इ) अन्नेन व्यञ्जनम्। संस्कार द्रव्याः अन्नवाचिना समस्यन्ते। उ -- दध्योदनम्, क्षीरोदनम्, ...
  • ई) भक्ष्येण मिश्रीकरणम्। मिश्रीकरणं भक्ष्यवाचिना च समस्यन्ते । उ - गुडपृथुकाः, गुडधानाः, ...