Wednesday, February 25, 2009

संक्षेप रामायणम् - १०

श्लोकः
महोरस्को महेष्वासः गूढजत्रुररिन्दमः ।
अाजानुबाहुः सुशिराः सुललाटस्सुविक्रमः ।। १० ।।

सन्धिः 
महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः 
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः 
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः - विसर्जस्य सः

Meaning:
महोरस्कः = having broad chest [----]
महेष्वासः = holding mighty bow [great archer/warrior]
गूढजत्रु = whose collar covered with flesh [secret bone]
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head? 
सुललाटः = having shapely forehead [-----]
सुविक्रमः = very valiant/bold/chivalrous -- possessed of charming gait

Summary:
The description of the qualities continues: great archer, conqueror of enemies, long arms, good head, very valiant, ... 

संक्षेप रामायणम् - ९

श्लोकः
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः । 
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। ९ ।।

सन्धिः 
बुद्धिमान् + नीतिमान् = बुद्धिमान् नीतिमान्
नीतिमान् + वाग्मी = नीतिमान् वाग्मी
वाग्मी + श्रीमान् = वाग्मी श्रीमान्
श्रीमान् + शत्रुनिबर्हणः = श्रीमाञ्छत्रुनिबर्हणः । व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
विपुलांसः + महाबाहुः = विपुलांसो महाबाहुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः
महाबाहुः + कम्बुग्रीवः = महाबाहुः कम्बुग्रीवः । विसर्ग सन्धिः - जिह्वामूलीय: - कुप्वो क
कम्बुग्रीवः + महाहनुः = कम्बुग्रीवो महाहनुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः

Meaningः 
बुद्धिमान् = intelligent, one who has wisdom
नीतिमान्  = sagacious, one who is just
वाग्मी = one who is eloquent
श्रीमान् = glorious [one who is wealthy]
शत्रुनिबर्हणः = destroyer of enemy
विपुलांसः = with large shoulders
महाबाहुः = long forearms
कम्बुग्रीवः = conch-shaped neck
महाहनुः = having stout chin   [big jaws]

Summary:
Rama's qualities are described here: wise, just, eloquent, wealthy, destructor of enemies, one with large shoulders, forearms and jaws, and has a conch-shaped neck. 

Monday, February 23, 2009

संक्षेप रामायणम् - ८

श्लोकः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । 
नियतात्मा महाविर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।

सन्धिः 
इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
नाम + जनैः = नाम जनैः 
जनैः + श्रुतः = जनैः श्रुतः 
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः 
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी

Meaning: 
इक्ष्वाकुवंशप्रभवः =  Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महावीर्यः = very powerful     [महाविर्यः = great warrior]
द्युतिमान् = possessed of splendour
धृतिमान् = determined person
वशी = one who has conquered over sense organs [under control]

Summary: 
It was heard by the people that Rama named Ikshvanku dynasty lord had the following qualities: self control, very powerful, possessed of splendour and determination. 

Monday, February 16, 2009

संक्षेप रामायणम् - ७

श्लोकः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्द्वा तैर्युक्तः श्रुयतां नरः ।।७।।

सन्धिः
बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये 
ये + त्वया = ये त्वया 
त्वया + कीर्तिता = त्वया कीर्तिता
कीर्तिता + गुणाः = कीर्तिता गुणाः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्‌वा = अहं बुध्द्‌वा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
बुध्द््वा + तैः = बुध्द्‌वा तैः 
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम् 
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning:
बहवः = many 
दुर्लभाः = difficult to be attained 
च = and 
एव = thus
ये  = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i 
बुध्द्‌वा  = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear [listen]
नरः  = man

Summary: 
Narada says, Oh sage, Listen, I will tell you about the man with the qualities that you described/praised ...

संक्षेप रामायणम् - ६

श्लोकः
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मिकेर्नारदोवचः । 
श्रुयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।६।।

सन्धिः
श्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
वाल्मिकेः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः [वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः, स्वर सन्धिः - अाद् गुणः]
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
श्रुयतामिति + च = श्रुयतामिति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतोदप्‌लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
श्रुत्वा  = after hearing [listen]
च  = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः  = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke

Summary: 
The knower of the three worlds, Sage Narada, was pleased and invited Sage Valmiki to listen the answers for his question. 

Sunday, February 15, 2009

संक्षेप रामायणम् - ५

Sloka: 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। 
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।५।।

सन्धिः
एतत् + इच्छामि = एतदिच्छामि । व्यञ्जन सन्धिः - झलां जशोन्ते
इच्छामि + अहम् = इच्छाम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + श्रोतुम् = अहं श्रोतुम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
श्रोतुम् + परम् = श्रोतुं परम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
परम् + कौतूहलम् = परं कौतूहलम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
कौतूहलम् + हि = कौतूहलं हि । व्यञ्जन सन्धिः - मोऽनुस्वारः
हि + मे = हि मे
महर्षे + त्वम् = महर्षे त्वम्  
त्वम् + समर्थः = त्वं समर्थः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
समर्थः + असि = समर्थोऽसि । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
असि + ज्ञातुम् = असि ज्ञातुम्
ज्ञातुम् + एवम् = ज्ञातुमेवम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
एवम् + विधम् = एवंविधम् । व्यञ्जन सन्धिः - मोऽनुस्वारः  
विधम् + नरम् = विधं नरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
एतत्  = this
इच्छामि = desire/wish
अहम् = I
श्रोतुम् = hearing (shanich prayogam)
परम् = very
कौतूहलम् = curiosity [joyful/happy]
हि = because
मे = to me [vibhakti 6]
महर्षे = Oh sage (vibhakti 8)
त्वम् = you
समर्थः = expert/knowledgeable
असि = are
ज्ञातुम् = knowing
एवम् = thus in this manner
विधम् = quality
नरम्  = man

Summary: 
Sage Valmiki says: This is what I desire because it gives extreme joy on hearing the answer for my questions. Oh Maharishi, you are knowledgeable/an expert and thus know a man 
with such qualities? 

संक्षेप रामायणम् - ४

Sloka: 
अात्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। 
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४।।

सन्धि: 
अात्मवान् + कः = अात्मवान् कः 
कः + जितक्रोधः = को जितक्रोधः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + कः = द्युतिमान् कः 
कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
कस्य + बिभ्यति = कस्य बिभ्यति
बिभ्यति + देवाः = बिभ्यति देवाः
देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + जातरोषस्य = च जातरोषस्य
जातरोषस्य + संयुगे = जातरोषस्य संयुगे

Meaning: 
अात्मवान् = self controlled, prudent, wise person 
कः  = who 
जितक्रोधः =  conquered/subdued anger
द्युतिमान् = majestic/bright person
कः  = who 
अनसूयकः  = free from malice/not envious
कस्य = who (vibhakti 6 - as in whose)
बिभ्यति = feared 
देवाः = the Devas 
जातरोषस्य = the birth of anger (vibhakti 6) / when wrath is provoked
संयुगे = in this good world

Summary: 
Valmiki continues: Who is the most prudent person, who has conquered anger, is free from malice/jealousy and whose anger is feared by the Devas of this world?