घने अरण्ये, सुरम्ये नदीतीरे, जनशून्यासु पर्वतगुहासु च ऋषयः निवसन्ति स्म । तेषां निवासस्थानम् 'अाश्रमः' इति नाम्ना प्रसिद्धम् अासीत् । तेषु अाश्रमेषु गुरुकुलानि अपि प्रचलन्ति स्म । तत्र मन्त्रद्रष्टारः ऋषयः अाचार्याः च भवन्ति स्म । तेषु कश्चन ऋषिः, कश्चन महर्षिः, कश्चन च ब्रह्मर्षिः भवति स्म । ते न केवलम् अाचार्याः अपि तु समाजस्य उन्नायकाः संस्कारकाः च अभवन् । वसिष्ठः विश्वामित्रः च प्रसिद्धौ ब्रम्हर्षी अास्ताम् । वाल्मीकिः वेदव्यासः च महर्षी अास्ताम् । तौ भारतस्य प्राचीनतमौ प्रसिद्धौ कवी अपि अास्ताम् । अनयोः वाल्मीकिः अादिकविः अासीत् । सः अादिकाव्यं रामायणं रचितवान् ।
वस्तुतः भारतीय-शिक्षणपरम्परायाः किञ्चित् वैशिष्टयम् अस्ति । शिशुः मातृगर्भे स्थितः संवर्धन-कालतः एव शिक्षां प्राप्नोति । अतः माता तस्य प्रथमः गुरुः भवति । जन्मानन्तरं पिता अन्ये च ज्येष्ठाः जनाः तस्य गुरवः भवन्ति । एवं शिशुः बाल्यकाले गृहे एव प्राथमिकीं शिक्षां प्राप्नोति । यथासमयं तस्य उपनयन-संस्कारः भवति । उपनयनानन्तरं वटुः गुरुकुले प्रवेशम् अर्हति । ते च वटवः ऋषीणां मार्गदर्शनेन स्व-स्वविषये निष्णाताः भवन्ति ।
[संस्कृतस्वाध्यायः, द्वितीया दीक्षा, प्रथम: भाग:, क १८]